________________
उत्तराध्ययन ॥१८५॥
अष्टाविंशमध्ययनम्, गा१४-१६
मूलम्-जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा।संवरो निजरा मोक्खो, संतेए तहिआनव॥१४॥ ___ व्याख्या-जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिसादिः, पुण्यादीनां द्वन्दः । तथेति समुच्चये, संवरो महाव्रतादिभिराश्रवनिरोधः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याहमूलम्-तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सदहंतस्स, संमत्तं ति विआहिअं॥१५॥
व्याख्या-तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्तःकरणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ १५॥ एवं सम्यक्त्वखरूपमुक्त्वा तद्भेदानाह
मूलम्-निस्सग्गुवएसरुई, आणीरुइ सुत्त बीअरुइमेव ।
अभिगम-वित्थाररुइ, किरिआ-संखेव-धम्मरुई ॥ १६ ॥
UTR-3