SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१८४॥ अष्टाविंश. मध्ययनम्. (२८) गा१२-१३ मूलम्-सइंधयार उज्जोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं१२ ___ व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुचये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥ व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूर्ती, चः समुच्चये, संयोगा अयमनुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणस्वान्नवपुराणत्वादीनि च, पर्यवाणां तुः पूत्तों, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥१३॥ इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy