________________
उत्तराध्ययन ॥१८३॥
अष्टाविंशमध्ययनम्. गा१०-११
३
कायः स्थानं स्थितिस्तलक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वव्याणां नमः आकाशं, अवगाहोऽवकाशस्तलक्षणं । जीवादीनामवगाढं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥
मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो ।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ व्याख्या-वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥१०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअंजीवस्स लक्खणं॥११॥ __ व्याख्या-वीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११॥ अथ पुद्गललक्षणमाह
UTR-3