________________
उत्तराध्ययन ॥१८२॥
अष्टाविंशमध्ययनम्. (२८) गा ७-९
रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोर्द्वयोः प्रक्रमाद्रव्यगुणयोराश्रिताः ‘भवेत्ति' भवेयुः ॥ ६ ॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह
मूलम्-धम्मो अहम्मो औगासं, कॉलो पोग्गल-जंतवो।
एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥ ७ ॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाधात्मकः, पुद्गलजन्तवः इति पुगलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः। अत्र प्रसङ्गालोकखरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैर्वरदर्शिभिः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आहमूलम्-धम्मो अहम्मो आगासं, दवं इक्लिकमाहि । अणंताणि अदवाणि, कालो पुग्गलजंतवो॥८॥ ___ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनर्द्रयाणि कालः पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो। भायणं सवदवाणं, नहं ओगाहलक्खणं ॥९॥ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पुत्तों, धर्मो धर्मास्तिकायः। अधर्मोऽधर्मास्ति
UTR-3