________________
उत्तराध्ययन ॥१८॥
अष्टाविंशमध्ययनम्. गा ५-६
आभिनिबोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि खरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ ज्ञानस्य विषयमाहमूलम्-एवं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसि ॥ ५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणांच जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां चक्रमभाविनां नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥५॥ अनेन द्रन्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा। लक्खणं पजवाणं तु, उभओ अस्सिआ भवे॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तयतिरिक्तान्
UTR-3