SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१७६॥ सप्तविंशमध्ययनम्. (२७) गा१४-१६ पार्थे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्तव्यं भविष्यतीति । कथञ्चित्कर्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरश्चमूलम्-वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ। जायपक्खा जहा हंसा, पक्कमति दिसोदिसं ॥१॥ ___ व्याख्या-वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थ च ग्राहिताः । सङ्ग्रहीताः परिगृहे कृताः, चशब्दाहीक्षिताः खयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यखरूपं विचिन्त्य तैरेवासमाधि खेदं च प्रापितो यदसौ चक्रे तदाहमूलम्-अह सारही विचिंतेइ, खलुंकेहि समागओ। किं मज्झ दुट्ठसीसेहि, अप्पा मे अवसीअइ ॥१५॥ व्याख्या-अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलु ः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया खकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ १५॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते ? इत्याहमूलम्-जारिसा मम सीसा उ, तारिसा गलिगदहा। गलिगदहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy