SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१७५॥ सप्तविंशमध्ययनम्. गा १२-१३ व्याख्या-सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव स्वाभिमतभाषको दोषमेवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तदचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११॥ कथमित्याह-- मूलम्-न सा ममं विआणाइ, नवि सा मज्झ दाहिइ। निग्गया होहिई मन्ने, साहूं अन्नोऽस्थ वच्चउ ॥ १२ ॥ व्याख्या-न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्यनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ १२ ॥ अन्यचमूलम्-पेसिआ पलिउंचंति, ते परियति समंतओ। रायविटि व मन्नंता, करिति भिउडिं मुहे ॥ १३॥ व्याख्या-प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः १ गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्म UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy