SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१७४॥ सप्तविंशमध्ययनम्. (२७) गा९-११ व्याख्या-खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः। कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धिइदुबलत्ति' आर्षत्वाहुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ ८॥धृतिदौर्बल्यमेव स्पष्टयितुमाहमूलम् इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥९॥ ___ व्याख्या-ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोन प्रवर्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ॥९॥ मूलम्-भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे। एगंच अणुसासम्मि, हेऊहिं कारणेहि अ॥१०॥ ___ व्याख्या-मिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिक्षा भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दु:शिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्चोक्तरूपैः ॥१०॥ मूलम्-सोवि अंतरभासिल्लो, दोसमेव पकुब्बइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy