SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १६१ ॥ मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोषैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७ ॥ साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह मूलम् - अणूणाइरित्त पडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्था णि॥२८॥ व्याख्या – ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवच्चासत्ति' अव्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचितास्तेषु च कः शुद्धः को वा शुद्धः ? इत्याह- प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोषामप्येनां कुर्वता यत्त्याज्यं तत्काक्वोपदेष्टुमाहमूलम् — पडिलेहणं कुणतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९ ॥ १ गुर्वादे रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधिं वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुष व्यत्यय उपधिव्यत्ययश्च । * स्थापना -ऽऽऽ - 1SS-SIS-IS-SS-151-5|| || एवमष्ट भङ्गाः ॥ पत्रिंशमध्ययनम्. गा २८-२९ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy