SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १६० ॥ १५ १८ २१ जाणुगा काऊण पडिलेहेइ ४ । एगओ वेइआ एगं जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति ५ ।” एवमेते षड् दोषाः त्याज्याः ॥ २६ ॥ तथा मूलम् — पसिढिल - पलंब-लोला, एगामोसा अणेगरूवघुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७ ॥ व्याख्या - प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमेकामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदकग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटनादिसंख्यारूपे प्रमादमनवधानं । यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्ती गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यगूवेदिका ३ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उभयोर्जान्वोरुपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्वोरधः प्रचुरं हस्तयो रक्षणम् २ । तिर्यगवेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ॥ षड्विंश - मध्ययनम्. (२६) गा २७ ॥४८४ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy