________________
उत्तराध्ययन ॥१५९॥
षड्विंशमध्ययनम्. गा २६
पूर्वः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणौ हस्ते प्राणिनां कुन्थ्वादीनां विशोधनं प्राणिवि.धनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह-- मलम् आरभडासम्मदा, वज्जेअवा यमोसली तइआ। पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्ठा २६ _ व्याख्या--'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं-"वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति" । संमईनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलेनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः प्रत्तौं, 'मोसलित्ति' तिर्यगूमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत् , सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्व क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहु:-"वेइआ पंचविहा पणत्ता, तंजहा-उड्डवेइआ १ अहोवेइआ २ तिरिअवेइआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उहुवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मझे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि
१ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥
UTR-3