SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१५८॥ पशिमध्ययनम्. (२६) गा २४-२५ | मूलम्-उर्दू थिरं अतुरिअं, पुवं ता वत्थमेव पडिलेहे।तो बिइयं पप्फोडे, तइअंच पुणो पमजिजा ॥२४॥ व्याख्या-ऊद्ध कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वस्त्रं पटलकरूपं जातावेकवचनं । अत्र च पटलकप्रक्रमेपि यद्वस्त्रमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्नक्रमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्कमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् , किमित्याह-यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्थात् , प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हतगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याहमूलम्-अणच्चाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव।छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं व्याख्या-अनर्तितं, वस्त्रं वपुर्वा यथा नर्तितं न भवति । अवलितं, यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽथों ? लक्ष्यमाणविभागं यथा भवति तथा । 'अमोसलित्ति' सूत्रत्वादमर्शवत्, तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा। किमित्याह-'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट् UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy