________________
उत्तराध्ययन ॥१६२॥
षड्विंशमध्ययनम्.
गा ३०-३२
व्याख्या--प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, रूयादिकथोपलक्षणमेतत् , ददाति वा | प्रत्याख्यानमन्यस्मै, वाचयति परं, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ॥२९॥ स किमित्याह
मूलम्-पुढवि आउक्काए, तेउ वाऊ वणस्सइ तसाणं। पडिलेहणापमत्तो, छण्हपि विराहओ होइ॥३०॥ __ व्याख्या-'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथः कथादीनि त्याज्यानि इति भावः ॥ ३०॥ मूलम्-पुढवी-आऊकाए, तेऊ-वाऊ-वणस्सइतसाणं। पडिलेहणा आउत्तो,छण्हपि आराहओ होइ॥३१॥ ___व्याख्या-[प्रतिलेखनायां आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां षण्णामपि कायानां आराधको | भवति ॥ ३१॥] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपौरुषीकृत्यं तु 'बीइ झाणं झिआयइ' इत्यनेनोक्तमेव, उभयं
चेदमवश्यं कर्त्तव्यं । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्य मुत कारण एवोत्पन्ने ? इत्याशङ्कापोहार्थमाहमूलम्-तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्टिए ॥ ३२ ॥
१ एषागाथा "घ" संज्ञकपुस्तके न दृश्यते ।।
UTR-3