________________
उत्तराध्ययन ॥१५२॥
पशिमध्ययनम्. (२६) गा ७.९
मूलम्-अब्भुट्टाणं गुरुपूआ, अच्छणे उवसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइआ ॥७॥
व्याख्या-अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्षत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव प्रावं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणैवोक्ता "छंदणा य निमंतणत्ति"। तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः। एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ॥ ७ ॥ एवं दशविधां सामाचारीमुदीर्योघसामाचारीमाहमूलम् -पुविल्लंमि चउब्भागे, आइच्चंमि समुहिए । भंडगं पडिलेहिता, वंदित्ता य तओ गुरुं ॥८॥
पुच्छिज्जा पंजलीउडो, किं कायवं मए इह। इच्छं निओइउं भंते, वेआवच्चे व सज्झाए ॥९॥ व्याख्या-पूर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः । अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्दा विभज्यते, तत्र पूर्वदिकसम्बद्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा, पादोनपौरुष्यामित्यर्थः । भाण्डमेव भाण्डकं पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च
UTR-3