________________
उत्तराध्ययन ॥१४१॥
पञ्चविंशमध्ययनम् गा१९-२०
AM
माहणसंपयत्ति' विद्यात्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्रामणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा बहिः संवरवन्तः, केन हेतुना ? खाध्यायतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मन्छन्ना अग्मय इव । यथा हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ॥ १८॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याह- . मूलम्-जोलोए बंभणो वुत्तो, अग्गी वा महिओजहा । सया कुसलसंदिट्रं,तं वयं बूम माहणं ॥ १९ ॥ ___व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथानियत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदाकुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टबामणखरूपमाहमूलम्-जो न सज्जइ आगंतुं, पवयंतो न सोअइ । रमए अजवयणंमि, तं वयं बूम माहणं ॥ २०॥ ___ व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानान्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकृद्वचसि ॥२०॥
ट.८०
UTR-3