________________
उत्तराध्ययन ॥१४२॥
पञ्चविंशमध्ययनम्. (२५) गा २१-२६
मूलम्-जायरूवं जहामढें, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ॥ २१ ॥
व्याख्या-जातरूपं स्वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । 'निद्धतमलपावगंति' प्राकृतत्वात् पावकेनाग्निना निर्मातं दग्धं मलं किटं यस्य तत्पावकनिर्मातमलं, अनेन चान्तरस्ततो जातरूपवद्बाह्यान्तरगुणान्वितः । अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ २१॥ मूलम्-तसे पाणे विआणित्ता, संगहेण यथावरे। जो न हिंसइ तिविहेणं, तं वयं ब्रम माहणं॥२२॥ __ व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२॥ मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भया ।मुसं न वयई जो उ, तं वयं बूम माहणं२३
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२४॥ ___ व्याख्या-[स्पष्टे नवरम् ] चित्तवद्विपदादि, अचित्त सुवर्णादि ॥ २३ ॥ २४ ॥ - मूलम्-दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं ब्रूम माहणं ॥ २५ ॥
जहा पउमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं ब्रम माहणं ॥२६॥
UTR-3