SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १४० ॥ १५ १८ २१ २४ कार्या, दीक्षितेनाग्निकारिका ॥ १ ॥" इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः ॥ वेदानां हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च “सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा च, संवरश्च तथापरः ॥ १७ ॥” इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ १६ ॥ काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाह- मूलम् - जड़ा चंदं गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नर्मसंता, उत्तमं मणहारिणो ॥ १७ ॥ व्याख्या—यथा चन्द्रं ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तमं प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याह— मूलम् — अजाणगा जण्णवाई, विज्जा माहणसंपया । गूढा सज्झायतवसा, भासछन्ना इवग्गणो ॥ १८॥ व्याख्या -- 'अजाणगत्ति' अज्ञाः के ते १ यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह- 'विजा पञ्चविंश मध्ययनम्. (२५) गा १७-१८ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy