________________
उत्तराध्ययन
॥ १३२ ॥
१५
१८
२१
२४
तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुधारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥ १७ ॥ १८ ॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाहमूलम् - आओ पञ्च समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्ती, वोच्छामि अणुपुवसो १९ व्याख्या -- 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुचसोत्ति' आनुपूर्व्येति सूत्रार्थः
॥ १९ ॥ तत्राद्यामाह -
मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा अ, मणगुत्ती चउब्विहा ॥ २० ॥ व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ॥२०॥ अस्या एव खरूपं निरूपयन्नुपदेष्टुमाह
मूलम् — संरंभसमारंभे, आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ २१ ॥ व्याख्या – संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्चायं - शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह
चतुर्विंश
मध्ययनम्.
(२४)
गा १९-२१