________________
उत्तराध्ययन ॥१३१॥
चतुर्विशमध्ययनम्. गा १७-१८
आपातं चैव संलोकं, यत्रोभयमपि स्वादिति तुर्यः ॥४॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुच्चारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह
मूलम्-अणावायमसंलोए १ परस्सऽणुवघाइए २।
समे ३ अझुसिरे ४ आवि, अचिरकालकयंमि अ५॥ १७ ॥ विच्छिण्णे ६ दूरमोगाढे ७, नासन्ने ८ बिलवजिए ९ ।
तसपाणबीअरहिए १०, उच्चाराईणि वोसिरे ॥ १८ ॥ | व्याख्या-अनापाते असंलोके, कस्खेत्याह-परस्य खपरपक्षादेः ॥ १॥ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते ॥ २॥ समे, निनोन्नतत्वहीने ॥३॥ अशुषिरे, तृणपर्णाधनाकीर्णे ॥४॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्छन्त्येव पृथिव्यादयः ॥५॥'विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे ॥६॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते ॥ ७ ॥ नासन्ने, ग्रामारामादेद्रस्थे ॥८॥ विलबर्जिते, मूषकादिबिलरहिते ॥९॥ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः रहिते त्रसप्राणबीजरहिते ॥१०॥ एषां च पदानामेकद्विकत्रिकादिसयोगैश्चतुर्विशं सहस्रं [१०२४ ] भङ्गाः स्युः ।
UTR-3