________________
उत्तराध्ययन
चतुर्विंशमध्ययनम्.
गा१५-१६
* 'दुहओवित्ति' द्वावपि प्रक्रमादौधिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठाप
नासमितिमाहमूलम्-उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥ १५॥ ___ व्याख्या-उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जलिअंति' जलं मलं, आहारमुपधिं देहं, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूतौ, तथाविधं परिष्ठापनाह स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५॥ स्थण्डिलं च दशविशेषणपदविशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशन्दद्वयस्य भगकरचनामाह--
मूलम्-अणावायमसंलोए, अणावाए चेव होइ संलोए।
आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥ व्याख्यान विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्थापि खपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः॥१॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ॥२॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३॥
UTR-3