________________
उत्तराध्ययन ॥१२८॥
चतुर्विशमध्ययनम्.
(२४) गा ९-११
प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमनसोस्तदेकारमुक्तं, संयत ईयाँ रीयेतेति सूत्रपञ्चकार्थः ॥८॥
भाषासमितिमाह| मूलम्-कोहे:माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य॥९॥
व्याख्या-क्रोधे माने मायायां लोभे चोपयुक्तता एकाप्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥९॥ मूलम्-एआई अझ ठाणाइं, परिवजित्तु संजये। असावज मिअं काले, भासं भासिज्जपण्णवं ॥१०॥ __व्याख्या-क्रोधाधुपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्त्य संयतः, असापद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे, इति सूत्रस्यार्थः ॥ १० ॥ एषणासमितिमाहमूलम्-गवेसणाए गहणे अ, परिभोगेसणा य ज़ा। आहारोवहिसेजाए, एए तिण्णि विसोहए ॥११॥ |
व्याख्या-गवेषणायामन्वेषणायां ग्रहणे स्वीकारे उभयंत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परिभोगैषणा च या, 'आहारोवहिसेज्जाएत्ति' वचनव्यत्ययादाहारोपधिशय्यासु 'एएचि' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११॥ कथं विशोधयेदित्याह
UTR-3