________________
उत्तराध्ययन ॥ १२७ ॥
१२
रूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोषाः ॥ ५ ॥ अथ यतनामाहमूलम् - दवओ खेत्तओ चेव, कालओ भावओ तहा। जयणा चउविहा वुत्ता, तं मे कित्तयओ सुण ॥ ६ ॥
व्याख्या- 'तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥ ६ ॥
मूलम् — दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावओ॥७॥
व्याख्या -- द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इथं क्षेत्रतो यतना । काळतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्व सावधानों यद्रयेत इयं भावतो यतना ॥ ७ ॥ उपयुक्ततामेव स्पष्टयति
मूलम् -- इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ ८ ॥ व्याख्या--इन्द्रियार्थान् शब्दादीन् विवर्ज्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ज्य तस्यापि गत्युपयोगघातित्वात् तस्यामीर्यायामेव मूर्त्तिस्तनुरर्थाध्याप्रियमाणा यस्यासौ तन्मूर्त्तिः, तामेव पुरस्करोति उपयुक्ततया
चतुर्विंश
मध्ययनम्.
गा ६-८
UTR-3