SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२६॥ चतुर्विंशमध्ययनम्. (२४) गा ३.५ मूलम्-एआओ अट्ट समिईओ, समासेण विआहिआ। दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं॥ व्याख्या-एता अष्ट समितयः, समिति सम्यग् जिनपचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायंति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाचारित्रं च ज्ञानदर्शनाविनाभावि, न चैतन्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न न्याख्यातमेवमप्रेऽपि ज्ञेयम् ॥ ३ ॥ तासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिसुद्ध, संजये इरिअं रिए ॥४॥ ग्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्मिः कारणैः परिशुद्धां संयत ईयां गति रीयेत कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्यातिमूलम्-तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ व्याख्या-तत्र तेष्वालम्बनादिषु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभय UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy