SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२५॥ ॥ अथ चतुर्विंशमध्ययनम् ॥ चतुर्विंशमध्ययनम् गा १-२ ॥ॐ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुर्विंशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः केशिगौतमवदपनेयेत्युकं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भाषासमितिश्च प्रवचनमातृणामन्तर्गतेति तत्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्वेदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव यापंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥ ___ व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुप्तयः, आहिजत्ति' आख्याताः कथिताः ॥ १॥ ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इ।मणगुत्ती वयगुत्ती, कायगुत्ति अ अट्ठमा ॥२॥ - म्याख्या-ईरणं गमनं ईर्या, भाषणं भाषा, एषणमन्नादिगवेषणमेषणा, आदानं पात्रादेग्रहणं, निक्षेपोपलक्षणमेतत् , उच्चारे उचारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येक योज्यं, । 'इअत्ति' इतिः समाप्ती, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ॥२॥ निगमनमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy