________________
उत्तराध्ययन ॥११॥
त्रयोविंशमध्ययनम्.
(२३) गा३६-३८
व्याख्या-अनेकानां सहस्राणां प्रक्रमाद्वैरिसम्बन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते' त्वां अमिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाजेतुं, कथं ते द्विषो निर्जितास्त्वया ? ॥ ३५ ॥ गौतमः प्राहमूलम्-एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ता णं, सबसत्तू जिणामह॥३६॥
व्याख्या-एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्वा सर्वशत्रूननेकसंख्यासहस्रान् जयाम्यहम् ॥ ३६ ॥ ततश्चमूलम्-सत्तू अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥३७॥ ___ व्याख्या-'सत्तू अ इइत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्त इति केशी गौतममब्रवीत् ॥ ३७॥
मूलम्-एगप्पा अजिए सत्तू, कसाया इंदिआणि अ।
ते जिणीत्तु जहाणायं, विहामि अहं मुणी ॥ ३८॥ व्याख्या-एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानर्थावाप्तिहेतुत्वात् शत्रुः, तथा कषाया अजिताः शत्रव इति वचनव्यत्ययन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः सर्वेऽपि रिपवो जिता एव । अयोपसंहारन्या
UTR-3