SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१०९॥ त्रयोविंशमध्ययनम्. गा ३३-३५ मूलम्-अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो।नाणं च दंसणं चेव, चरितं चेव निच्छए ॥३३॥ व्याख्या-अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्यु. पगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञेत्याह-'मोक्खसब्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि तात्त्विकानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैव, कोऽर्थः? ज्ञानाद्येव मुक्तिसाधनं न तु लिंग, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिंग विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिंचित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ ३३॥ मूलम्-साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो।। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा !॥ ३४ ॥ __ व्याख्या-प्राग्वन्नवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् केशीदमाह ॥ ३४ ॥ मूलम्-अणेगाण सहस्साणं, मझे चिट्ठसि गोअमा! ते अते अभिगच्छंति,कहं ते निजिआ तुमे?३५॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy