________________
उत्तराध्ययन ॥१०८॥
त्रयोविंशमध्ययनम्.
(२३) गा३१-३२
मूलम्-केसिमेवं बुवंतं तु, गोअमं इणमब्बवी।
विण्णाणेण समागम्म, धम्मसाहणमिच्छिअं॥३१॥ व्याख्या--'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा, धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकं, 'इच्छिअंति' इष्टमनुमतं श्रीपार्श्वश्रीवीराहयामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्थशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ ३१ ॥ किञ्चमूलम्-पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥३२॥
व्याख्या-प्रत्ययार्थ चामी जतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपिः केचिद्वयं वतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति । तथा 'जत्तत्थंति' यात्रा संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्टयादौ संयमबाधैव स्यात् । 'गहणत्यंति' ग्रहणं खस्य ज्ञानं तदर्थ च, कथंचिच्चित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य वेषस्य प्रयोजनम् ॥ ३२ ॥
UTR-3