SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१०६॥ त्रयोविंशमध्ययनम्. (२३) गा २७ व्याख्या-'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्च प्राञ्जलतया जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च वक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडाः, चः समुच्चये, पश्चिमाः पश्चिमजिनयतयः। मध्यमास्तु मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः । एककार्यप्रपन्नत्वेऽपि इतिप्रक्रमः ॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीशत्वं, तथापि कथमेतद्वैविध्यमित्याह मूलम्-पुरिमाणं दुबिसोझो उ, चरिमाणं दुरणुपालओ। ___ कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तद्वाक्यं सम्यगवबोढुं प्रभवन्तीति तुः पूत्तौ । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः । ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याम ज्ञातुं पालयितुं च क्षमाः। यदुक्तं-“नो अपरिग्गहिआए, इत्थीए UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy