________________
उत्तराध्ययन ॥१०५॥
त्रयोविंशमध्ययनम्. गा२३-२६
मलम-चाउजामोअजोधम्मो, जो इमो पंचसिक्खिओ।देसिओवद्धमाणेणं, पासेण य महामणी २३
व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ॥ २३॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं। धम्मे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥ २४ ॥ ___ व्याख्या-धम्मेत्ति' इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसिं बुवंतंतु, गोअमोइणमब्बवी। पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥
व्याख्या--'बुवंतं तुति' त्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्मतत्तति' विंदोर्लोपे धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ २५ ॥ ततश्च
मूलम्-पुरिमा उजुजडा उ, वक्कजडा य पच्छिमा।
मज्झिमा उजुपपणा उ, तेण धम्मे दुहा कए ॥ २६ ॥
UTR-3