SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. ॥१०२॥ कारणमित्युत्तरेण या अचेलगो अ केशिगौतमसंवादः गा १३-१४ वर्द्धमानेन देशित इति योगः 'महामुणित्ति' महामुनिना, इदं चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ॥ १२ ॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयति मूलम्-अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो। एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥ १३ ॥ व्याख्या-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थ प्रपन्नौ प्रवृत्तौ एककार्यप्रपन्नौ तयोःप्रक्रमात् पार्थवर्द्धमानयोर्विशेष प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ १३ ॥ एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाहमूलम्-अह ते तत्थ सीसाणं, विण्णाय पविअकि। समागमे कयमई, उभओ केसिगोअमा॥१४॥ व्याख्या-अथ ते इति तो तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥ १४ ॥ ततश्च UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy