________________
उत्तराध्ययन
।। ३९ ।।
मूलम् —ण कोवए आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई ण सिआ ण सिया तोत्तगवे सए ॥ ४०॥ व्याख्या- न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याद्युपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, तथाहि
गच्छे कापि पुराऽभूवन्, गणिसंपत्समन्विताः । युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः || १ || चिकीर्षवोऽपि ते सम्यग् विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं पुरे क्वाप्यवतस्थिरे ॥ २ ॥ सत्वेतेषु मुनीन्द्रेषु, जिनशासभानुषु ॥ तीर्थ सनाथमस्तीति चिन्तयन्तो महाधियः ॥ ३ ॥ तत्रत्याः श्रावका धन्यं मन्याः सम्यगुपाचरन् ॥ तद्योग्यैः खिग्धमधुरै - राहारैरौषधैश्च तान् ॥ ४ ॥ [ युग्मम् ] गुरुकर्म भराक्रान्ता, निःस्नेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥ ५ ॥ अस्माभिः पालनीयोऽयं, कियचिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ॥ ६ ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ ७ ॥ विसृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इचैवं ते जडा जगुः ॥ ८ ॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥ ९ ॥ निर्विण्णास्तदमी नूनं श्रावका नित्यदानतः ॥ भवेयुनरसा भूरि- पीडनान्नक्षवोऽपि किम् ? ॥ १० ॥ अकिंचना वयं तत्किं कुर्मो
प्रथमाध्ययनम् (१)
UTR-1