________________
॥ ३८ ॥
मूलम्-खड्डुआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिट्टित्ति मण्णइ॥३८॥ _ व्याख्या-खड्डुकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दंडादिधाता मे, अयंभावः- खडकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति. अन्यच्च-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणसासं| तोत्ति' गुरुणा अनुशास्यमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥३८॥
विनीताध्यवसायमाह| मूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ॥पावदिट्टी उ अप्पाणं, सासं दासित्तिमपणइ ॥३९॥ [2]
व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञातिं खजनमिव 'मे' इति मां अय- | माचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९॥ विनयसर्वखमाह
UTR-1