________________
उत्तराध्ययन
।। ३७ ।।
| शाकपत्रादेस्तिक्तत्वादि, यद्वा मुहृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं मुष्ठु निष्ठां || प्रथमाध्यम रसप्रकर्षात्मिकां गतं, मुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि मावा
नम् (१) वचो वर्जयेन्मुनिः । यद्वा मुष्ठ कृतं यदनेन रिपोः प्रतिकृतं, सुपक्कं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, मुहृतं कदयेस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविनादिः, मुनिष्ठितोऽयं प्रासादकृपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्प्रात्राजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्तुः, सुनिष्ठितोऽयं साध्याचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तद्दर्शयन्नाहमूलम्-रमए पंडिए सासं, हयं भदं व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ |
व्याख्या-रमते अभिरतिमान् भवति, पंडितान विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावह वाहकोऽश्वदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , सहि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ॥ ३७ ॥ गुरुशिक्षणे बालस्याशयमाह
UTR-1