SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदुरयोहि यथायोगं जुगुप्साशंकानेपणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थ कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् स्वीकुर्यात् , संयतो यतिरितिसूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाह| मूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं॥ ३५॥ व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधु जीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचवकसकस. कादिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिट्टिए सुलट्टत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्टु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy