________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
।। ३५ ।।
* ॥ ३३ ॥ भिक्षाचर्या च कुर्वता पूर्वागतान्यभिक्षुकसंभवे यत्कार्यं तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ। एगो चिट्ठिज भत्तहा, लंधिआतं णइक्कमे ॥३३॥
व्याख्या-'गाइरंति' विभक्तिव्यत्ययान्नातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एपणाशुद्धघसंभवाञ्च, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थाना 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे तसू , ततश्चक्षुःस्पर्श इष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किंतु असौभिक्षुर्भिक्षुनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः। एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं खयं वा क्षुधामसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्गतमेव विधिमाहमूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासुअं पक्खडं पिंडं, पडिगाहिज्ज संजए ॥३४॥
व्याख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात, दायकापायसंभवाच्च । यथा नात्युचो द्रव्यत उच्चैःकृतकंधरो भावतचाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान्, वा शब्द उभयत्रापि समुच्चये । तथा नासन्ने
UTR-1