SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥ ३४ ॥ भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवर्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् “कालंमि कीरमाणं, किसिकम्मं बहुफलं All जहा होइ ॥ इअ सबच्चिा किरिआ, णिणिअकालंमि विण्णेआ ॥१॥” इति सूत्रार्थः ॥ ३१॥ भिक्षार्थ निर्गतश्च यत्कुर्यात्तदाह मूलम्-परिवाडीए ण चिडेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भक्खए॥३२॥ M व्याख्या-परिपाट्यां पंक्त्यां भुजानमानवसंबंधिन्यांन तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यद्वा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा ad भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा | उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबेन पतगृहादिधार णात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा | गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि खाध्यायविघातादिबहुदोषसंभवात् , कालेन “णमोकारेण पारित्ता” इत्याद्यागमोक्तप्रस्तावेन अद्रुताविलंबितरूपेण वा भक्षयेद्धजीतेति सूत्रार्थः | UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy