SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन | प्रथमाध्यय नम् (१) ।। ३३ ।। व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवार्जवादिकरमपि, क्षात्यादिहेतुत्वाद्र्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहमूलम्-आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्टाई णिरुट्ठाइ, णिसीइज्जप्पकुकुए ॥३०॥ व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवतिचिचलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निपीदेत् आसीत 'अप्पकुक्कुएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणबृभ्रमणाद्यसञ्चेष्टारूपं यस्य सोऽल्पकाकुच्य इति सूत्रार्थः ॥३०॥ संप्रत्येषणासमितिविषयं विनयमाहमूलम्-कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता,काले कालं समायरे॥३१॥ व्याख्या-काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थं भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy