________________
।। ३२ ।।
च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात्, उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुखति ॥ १ ॥” इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाहमूलम् - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥
व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् १ येनैवमुच्यत इत्याहमूलम्-अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ॥२८॥ व्याख्या- अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाह -
मूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९ ॥
UTR-1