________________
प्रथमाध्ययनम् (१)
||३१ ।।
उत्तराध्ययन | निंदा, दुर्गतिश्चोपजायते ॥ १॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् मिथुर्मुनिः, न च नैवावधारिणी प्रस्तावा
| द्वाणीं गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किंबहुना ? भाषादोषं सावधानुमोदनाचं जकारमकारादिकं च परिहरेत् , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किश्चमूलम्-ण लविज पुट्ठो सावजं, ण णिरठंण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५॥
व्याख्या-न लपेन्नवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम् , न निरर्थ निष्प्रयोजनं अमिधेयशून्यं वा, यथा-"एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि सातः, शशभंगधनुर्द्धरः ॥ १॥” इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थे वा अन्याथै, उभयस्थात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ २५ ॥ इत्थं खगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाहमूलम्-समरेसु अगारेसु, संधीसु अ महापहे । एगो एगिथिए सद्धिं, णेव चिट्टे ण संलवे ॥ २६ ॥ ___ व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु गृहद्वयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत्, न संलपेन्न तयैव सह संभाषं कुर्यात् , अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं
UTR-1