________________
।। ३०।।
* मूलम्-आसणगओ ण पुच्छिजा, णेव सिजागओ कया।आगम्मुकुडुओ संतो,पुच्छिजा पंजलीउडो॥२२॥
__ व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां | विनेति गम्यते,कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥२२॥ ईदृशस्य शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ २३ ॥
व्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्र कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस्य खयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्कथयत्, यथा येन प्रकारेण श्रुतमाकर्णितं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थः॥ २३ ॥ पुनर्विनेयस्य वाग्विनयमाहमूलम्-मुसं परिहरे भिक्खू , ण य ओहारिणिं वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ व्याख्या-मृषां असत्यं भूतनिहवादिकं परिहरेत् , “धर्महानिरविश्वासो, देहार्थव्यसनं तथा ॥ असत्यभाषिणां
UTR-1