________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
।। २९ ।।
साधुः, तथा पादौ प्रसारयेद्वापि नैवतीहापि योज्यम् , अत्र या शब्दः समुच्चये, अपि शब्दम्तु इनम्नतोऽपि नैव निक्षिपेदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश पण, अन्नपा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सुचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिधतणनिधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टी उबचिडे गुरु सया ॥२०॥
व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तृप्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत् , किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति | प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसप्पेत् गुरु धर्माचार्यादिकं | सदेति सूत्रार्थः ॥ २०॥ तथा| मूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ * व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निपीदेत् , न निपण्णो भवेत् , कदाचिदपि, | व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु सक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यत्नवान् , 'जत्तंति' प्राकृतत्वात् जकारस्य विन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशंति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाह
UTR-1