________________
।। २८ ।।
पोहार्थः । कुर्याद्विदध्यात् कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाह - मूलम् - ण पक्खओ ण पुरओ, णेव किच्चाण पिट्ठओ । ण जुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सु ॥ १८ ॥
व्याख्या - न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात्, पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्मार्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरुं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात्, उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न स्वीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः - शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत्, किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृतांजलिर्गुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथा —
मूलम् — व पल्हत्थि कुज्जा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिट्ठे गुरुणंतिए ॥ १९ ॥ व्याख्या-नैव पर्यस्तिकां जानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः
UTR-1