________________
दत्तोपजीविनः ।
॥ ४०॥
दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥११॥ गुरोः पुरो निगद्येति. ते भिक्षायै गताः || | पुनः ॥ सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ॥ १२ ॥ तद्राहणार्थ चात्यर्थ- मारहे श्रावकैः कृते ॥ ते प्रोचुर्गुरवो नेदं, प्रणीतं भुञ्जतेऽधुना ॥ १३ ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि |* गतस्पृहाः ॥ १४ ॥ तच्छुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ १५॥ | जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो !॥ युष्माभिः शासनं जैन, भाति वेश्मेव दीपकैः ॥ १६ ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः १ ॥ अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः॥ १७॥ निर्वेदहेतुरेतेषा-महं भावी- | यपि खयम् ॥ न चिन्तनीयं खग्नेऽपि, भगवद्भिर्युगोत्तमैः ॥ १८ ॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीगितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ २० ॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणै-रेषां निर्वेदहेतुभिः ॥ २१॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ २२ ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियचिरम् ॥ २३ ॥ तदुत्तमार्थ| मेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः ॥ २४ ॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवादं, परत्र दुःखं च गुरूपघातात् ॥ २५ ॥ इति गुरूपघाति
UTR-1