________________
॥ २६ ॥
| शुभम् ॥ ६॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, खनंदनमदीधयत् ॥ ७ ॥ मुग्धत्वमधुराकार, कलभं मुनयोऽपि तम् ॥ सलील लालयामासुः, स्वपुत्रमिव वत्सलाः॥८॥ शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि सः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ॥९॥ तं सेचनकनामानं, तापसाः प्रोचिरे ततः॥क्रमाच्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥ १०॥ अटन्नटव्यां तथं, द्विपः सोऽपश्यदन्यदा ॥ अरीरमच्च संजाता-नुरागास्तत्करेणुकाः॥ ११॥ तं दृष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ १२ ॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥१३॥ कृतघ्नः सगजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥ भञ्जन्ति खाश्रयं दन्ता-बलाः प्रायः खला इव ॥ १४ ॥ [युग्मम् ] अस्मामिः पोषितेनापि, द्विपेनाऽनेन हा! वयम् ॥ उपद्रुतास्तकिमपि, दर्शयामोऽस्य तत्फलम् ॥१५॥ ध्यात्वेति तापसाः कोपा-गत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ १६ ॥ [ युग्मम् ]
प्रभो! सेचनकाह्वानः, सर्वलक्षणलक्षितः॥ भद्रजातिवनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ १७॥ पृथिव्यां रत्नभूEd तोऽयं, तवैवाऽर्हति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं ग्रहितुमगाद्वनम् ॥ १८ ॥ उपायैर्भूरिभिभूप-स्तं गृही
त्वाथ दंतिनम् ॥ आनीय खपुरेऽबना-दालाने शृंखलागणैः ॥ १९ ॥ ततः खीयवशायूथ-वियोगातुरचेतसम् ॥ अरुन्तुदैर्वचोभिस्तं, निनिंदुरिति तापसाः ॥ २०॥ रे! कृतघ्न ! क्व ? तद्वीय, शौण्डीय चाधुना तव ॥ फलमस्मद
UTR-1