________________
।। २४ ।।
विघ्नस्तु गले बालः, खरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥ १६ ॥ उलूककाकमार्जारगृप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायंते रात्रिभोजनात् ॥ १७ ॥ वाचंयमानां तौ वाच- मित्याकर्ण्य वितेनतुः ॥ निशाहारपरिहारं, विजहुः साधवोऽप्यथ ॥ १८ ॥ ततस्तौ तद्वतं सम्यक् पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा चौर्य - कृते चौरनजैर्वृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायंतो, महिषं जनुरेककम् ॥ २० ॥ तन्मांसमेके संस्कर्तु - मारभताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ २१ ॥ अथ ते पलपत्तारो, लोभेनेति व्यचिंतयन् | हालाहेतोर्गतान् हन्तुमुपायं कुर्महे वयम् ॥ २२ ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ २३ ॥ देवात्तथैव सञ्चिन्त्य, ग्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ॥ २४ ॥ तदा च वसुपूर्णोऽपि प्राप्तपूर्वोदयोऽपि हि ॥ वारुणी सेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यैः सामहं प्रोक्ता - वपि तौ सोदरौ तदा ॥ प्रतभंगभयान्नैवा-भुआतां सत्त्वशालिनौ ॥ २६ ॥ अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च ॥ विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमैयरुः ॥ २७ ॥ ततस्तान्निधनं प्राप्ता- निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ स्वीकृतव्रतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा - दकस्मान्मरणं भवेत् ॥ २९ ॥ आवयोर्नाभविष्यचे-न्निशाभुक्तित्रतं हितम् || आवामप्येतदाहारा - तत्प्राप्स्यावो दशामिमाम् ॥ ३० ॥ महोपका
UTR-1