SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १५ ।। व्याख्या-अनुशिष्टः कदाचित् परुषोत्त्यापि शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह - क्षान्तिं परुषभाषणादिसहनात्मिकां सेवेत, पंडितो बुद्धिमान्, तथा 'खड्डेहिंति' क्षुद्रैर्वालैः शीलहीनैः पार्श्वस्थादिभिर्वा सह समं 'संसरिंगति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिका दानादिकां वर्जयेत्, लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्रार्थः ॥ ९ ॥ पुनरन्यथा विनयमेवाह — मूलम् - माय चंडालिअं कासी, बहुअं माय आलवे । कालेण य अहिजित्ता, तओ झाएज एगगो ॥ १० ॥ व्याख्या - मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एवं बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह - कालेन प्रथमपौरुप्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि - त्वा पृच्छाद्युपलक्षणं चैतत्, ततोऽध्ययनाद्यनन्तरं ध्यायेश्चिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ॥ १० ॥ इत्थमकार्यनिषेधः कार्यविधिश्वोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम् - आहच्च चंडालिअं कट्टु, न निण्हविज कयाइवि । कडं कडित्ति भासिज्जा, अकडं णो कडित्ति अ ॥ ११ ॥ व्याख्या-‘आहच्च’ कदाचिच्चंडालीकं पूर्वोक्तं कृत्वा न निहुवीत मया न कृतमिति नापलपेत्, कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह - कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृ प्रथमाध्यय नम् (१) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy