________________
।।१६ ।।
तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत , मृपावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्ती लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥तं तह आलोएजा, मायामयविप्पमुक्को उ ॥१॥” इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥११॥अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाहमूलम्-मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसंव दद्दुमाइण्णे, पावगं परिवजए ॥ १२॥
व्याख्या-मा निषधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलषेत पुनः पुनर्वारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशिप्येणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व | इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा मुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्तते, माभूद्रोवचनायास इति सूत्रार्थः ॥ १२॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाह
UTR-1