________________
उत्तराध्ययन
॥९
॥
ममंथ वार्द्धिव्यूह च, मंधाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहां, सामर्पश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, || प्रथमाध्यय. सद्यो दिव्यं शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः | नम् (१)
॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४ ॥ सत्य| संधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ ७५ ॥ आद्ये रणे पण्णवति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ ७६ ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्सुहृद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ ७७ ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सु खखपुरं नंष्ट्वा-ऽष्टादशखपि राजसु ॥ ७८ ॥ प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ॥ ७९ ॥ ( युग्मम् )
अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुद्रुवतुर्हल-विहल्लौ तौ प्रतिक्षपम् ॥ ८० ॥ अवस्कंदप्रदानाया| ऽऽगतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ॥८१॥ तन्मार्गे मंत्रिणां बुद्ध्या, कूणिकोऽचीकरत्ततः॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ ८२॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः॥ ज्वलदंगारगा तां, नुन्नोऽपि न पुरोऽचलत् ॥८३॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ ८४ ॥ वरं श्वा पोषितः शश्व-त्खामिनं योऽनुवर्त्तते ॥ कृतघ्नोऽहिरिव खामि
UTR-1