________________
।। १० ।।
कृत्यनाशी भवान्नतु ॥ ८५ ॥ इत्युक्तः सिंधुरस्ताभ्यां स्वामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा - त्ती बलेनोतारयत् ॥ ८६ ॥ स्वयं तु तस्यां गर्त्तायां, दत्वा झंपां विपद्य च ॥ आद्येऽगान्नरके धैर्य - महो तस्य पशोरपि ! ॥ ८७ ॥ तद्वीक्ष्य सानुतापौ तौ कुमाराविति दध्यतुः ॥ क्रोधान्धाभ्यां धिगावाभ्यां किमकार्यमिदं कृतम् ! ॥८८॥ कृते यस्य कृतो देश- त्यागो भ्राता रिपृकृतः ॥ अस्मिंश्च व्यसनांभोधी, क्षिप्तो मातामहोऽप्यहो ! ॥ ८९ ॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव - शिष्यीभूयैव नान्यथा ॥ ९० ॥ ( युग्मम् )
तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥ ९१ ॥ गुणरत्नं तपस्तप्त्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू - द्विहलस्त्वपराजिते ॥ ९२ ॥ गृहीतेऽपि व्रते ताभ्यां पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक- चन्द्रो निस्तन्द्रविक्रमः ॥ ९३ ॥ खरयुक्तहलैरेनां, नगरीं न खनामि चेत् ॥ | तदा त्यजाम्यहमसून्, भृगुपातादिना ध्रुवम् ॥९४॥ तथापि तां पुरीं भक्त-मनीशे श्रेणिकात्मजे ॥ क्रमात् खेदं गते | देवी, कापीत्यूचे नभः स्थिता ॥ ९५ ॥ “ समणे जदि कूलवालए, मागधिअं गणिअं गमिस्सए । राया य असोगचंदए, बेसालिं नगलिं गहिस्सए ॥ ९६ ॥ तन्निशम्य नृपस्तुष्ट - स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ॥ ९७ ॥ तत्प्रपद्याभवन्माया- श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ - मज्ञासीत्तं च संयतम् ॥ ९८ ॥ तत्रारण्ये ततो गत्वा तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः ॥ ९९ ॥
UTR-1