________________
॥ ८ ॥
वीरगणोन्मुक्त - पृषत्क्ताच्छादितांबरे | आरेभाते रणं भीम-मुभे अपि ततो बले ॥ ५६ ॥ निषादिना व्यधाद्युद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ काली जयार्थमुत्तालः समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्वेटकस्यान्तिके ययौ ॥ ५८ ॥ दिनं प्रत्येक विशिख - मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यवाणेन, तं कृतान्तातिथिं व्यधात् ॥ ५९ ॥ चंपापतेर्बलं शोका - कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्तं विशश्राम ततो रणः ॥ ६० ॥ द्वितीयेऽप्यहि सैन्याभ्या - मारब्धे संगरे पुनः ॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥ ६१ ॥ अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्य चिन्तयत् ॥ ६२ ॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हा मया ॥ मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचि - दाराध्यामुं जयाम्यरिम् | नो चेद्भविष्याम्यनुग- स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र - चमरेंद्रावुपेयतुः ॥ ६५ ॥ किमिच्छसीति जल्पतौ, तावित्यूचेऽथ कृणिकः ॥ यदि तुष्टौ युवां सद्य-वेटको मार्यतां तदा ॥ ६६ ॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षां तु, तव भक्तिवशंवदः ॥ ६७ ॥ महाशिलाकंटका - रथादिमुशले रणे । चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥ ६८ ॥ तत्राद्ये वैरिषुक्षिता-पि कर्करकंटक || महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ ६९ ॥ युद्धे द्वितीये तु रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कृणिकः समराजिरम् ॥
UTR-1